पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीशिवप्रतिपादनस्तोत्रम् ५०५

नमस्ते वाक्स्वरूपाय नमस्ते वाक्स्वरूपिणे । नमस्ते लिङ्गरूपाय नमस्ते लिङ्गरूपिणे ॥ १६ नमस्ते वायुरूपाय नमस्ते वायुरूपिणे । नमस्ते चित्तरूपाय नमस्ते चित्तरूपिणे ॥ १७ नमस्ते मातृरूपाय नमस्ते मातृरूपिणे । नमस्ते मानरूपाय नमस्ते मानरूपिणे ॥ १८ नमस्ते मेयरूपाय नमस्ते मेयरूपिणे । नमस्ते मितिरूपाय नमते मितिरूपिणे ॥ १९ रक्षरक्षमहादेव क्षमस्व करुणालय । भक्तचित्तसमासीन ब्रह्म विष्णु शिवात्मक ॥ २० सूतब्रह्मादयः स्तुत्वा प्रणम्य भुवि दुण्डवत् । भक्तिपारङ्गता देवा बभूवुः परमेश्वरे ॥ २१

इति श्रीस्कान्देमहापुराणे नन्दीश्वरविष्णुसंवादे श्रीशिवप्रतिपादनस्तोत्रम् ॥