पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
गणेशमानसपूजा


दशाङ्गभूतं मनसा मया ते
   धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश
   सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४
दीपं सुवर्त्या युतमादरात्ते
   दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-
   तैलादिसम्भूतममोघदृष्टे ॥ ४५
भोज्यं तु लेह्यं गणराज पेयं
   चोष्यं च नानाविधषड्रसाढ्यम् ।
गृहाण नैवेद्यमतो मया ते
   सुकल्पितं पुष्टिपते महात्मन् ॥ ४६
सुवासितं भोजनमध्यभागे
   जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश
   पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७