पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०० बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

प्रतीताय स्वयं सर्वसाक्षिणे महसे नमः ॥ ६३ स्वस्वरूपादहीनाय वस्तुतो वस्तुतोपि च । अर्थाय महते साक्षात्स्वयम्भानाय वै नमः ॥ ६४ प्रसादलभ्याय शिवाय सत्यचिन्महासुखाय पर- वर्जिताय । अतीव शुद्धस्य हृदम्बुजालये विभास- मानाय नमो नमस्ते ॥ ६५ श्रीसूत उवाच:- एवं नारायणेनैव शङ्करोभिष्टुतः पुनः । प्राह गम्भीरया वाचा किमर्थं तप्तवांस्तपः ॥ ६६ इत्याकर्ण्य महाविष्णु: प्रणम्य परमेश्वरम । तव स्थानानि मे देव ब्रूहि साक्षात्कृपाकर ॥ ६७ इत्युक्तो विष्णुना शम्भुस्सर्वज्ञः करुणाकरः । प्राह सर्वामरेशानस्स्थानानि स्वस्य विष्णवे ॥ ६८ य: पठेत्प्रातरुत्थाय स्तोत्रमेतन्मनोहरम् । इहामुत्र फलं तस्य करस्थं नात्र संशयः ॥ ६९

इति श्रीस्कान्दे महापुराणे विष्णुकृतशिवमातृका- वर्णमालास्तोत्रम् ॥