पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवमातृकावर्णमालास्तोत्रम् ४९९

हाहाहूहू प्रगीताय हंसरूपाय ते नमः ॥ ५५ ळकाराय ळकाराख्य महामन्त्रप्रियायच । डोलाचञ्चलसंसार नाशनाय नमो नमः ॥ ५६ क्षकाराय क्षमन्त्रार्थस्वरूपाय क्षमावताम् । क्षेमदाय मम क्षेम स्वरूपाय नमो नमः ॥ ५७ मातृकावपुषे मातृमानमेयादिसाक्षिणे मातृकामन्त्रलभ्याय महसेच नमो नमः ॥ ५८ मातृकाधारभूताय मातृकामूलरूपिणे । महामन्त्रैकवाच्याय महसे ब्रह्मणे नमः ॥ ५९ द्विधाभूत महामन्त्र स्वरव्यञ्जनव्यङ्ग्यतः । वाच्यायापदरूपाय पदाय महसे नमः ॥ ६० अष्टधाचाष्टवर्गैस्तु विभक्तायामलात्मने । अशेषशब्दभूताय तत्तदर्थाय वै नमः ॥ ६१ शब्दान्वयविहीनाय शब्दलक्ष्याय साक्षिणे । सर्वोपाधिविहीनाय स्वयम्भानाय वै नमः ॥ ६२ प्रत्यक्षादिप्रमाणानामगम्याय परोक्षतः ।