पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

ममकारविहीनानां महानन्दाय वै नमः ॥ ४७ यकाराय यथार्थाय यथार्थज्ञानिनां नृणाम् । यथार्थ प्रत्यगद्वैतब्रह्मणे सततं नमः ॥ ४८ रकाराय रतिप्रीति प्रियाय रतिहेतवे । रशब्दवपुषे रोगभवनाशायवै नमः । ४९ लकाराय लतासोम स्वरूपाय लतात्मने । लाभालाभविहीनाय लब्धिरूपायवे नमः ॥ ५० वकाराय वरिष्ठाय वासुदेवादिहेतवे । वाञ्छावागुरुविच्छित्तिहेतुभूताय वै नमः ॥ ५१ शकाराय शरण्याय शम्भवे शरणार्थिनाम् । शरण्याय शरच्चन्द्रधवळाय नमोनमः ॥ ५२ षकाराय षडाधार षट्चक्रादिस्वरूपिणे । षडक्षर निषण्णाय नमष्षण्मुखहेतवे ॥ ५३ सकाराय सशब्दार्थ खरूपाय सदात्मने । साक्षिणे साक्ष्यरूपाणां नमस्साधूपकारिणे ॥ ५४ हकारायाहमर्थाय सदाहङ्काररूपिणे ।