पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवमातृकावर्णमालास्तोत्रम् ४९७

महागणैश्च पूज्याय थमध्याय नमोनमः ॥ ३९ दकाराय दयारूप महाशक्तिमयाय च । देशजाति विहीनाय दिवारात्रायवै नमः ॥ ४० धकाराय धरण्यादि महाभूतस्वरूपिणे । धराधरहृदिस्थाय धमध्याय नमोनमः ॥ ४१ नकाराय नगेन्द्राय नामजात्यादिहेतवे । नमशिशवाय नम्याय नानारूपाय शूलिने ॥ ४२ पकाराय परानन्दस्वरूपाय परात्मने । परापरविहीनाय पावनाय नमोनमः ॥ ४३ फकाराय फलाख्याय फलाख्यगणाय नमः । फडाख्यगणपूज्याय नमः पूर्णस्वरूपिणे ॥ ४४ बकाराय बकाराख्य महाबीजैकजापिनाम् । बन्धनाकारनाशैकहेतवे वेधसे नमः ॥ ४५ भकाराय भवाब्धेस्तु तारकाय भवायते । भवशब्दैकवेद्याय भवानीपतये नमः ॥ ४६ मकाराय महामाया पाशनाशैकहेतवे ।