पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९६ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

झमध्य चन्द्रबिम्बाय नमस्साम्बाय शम्भवे ॥ ३१ ञकाराय ञमन्त्रार्थ स्वरूपाय ञमूर्तये । ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय नमोनमः ॥ ३२ टकाराय ट टा टी टू पूर्वोक्तैस्तु महारवैः । अर्चिताय सुरश्रेष्ठै रसुरैश्चः नमोनमः ॥ ३३ ठकाराय ठमन्त्रार्थ स्वरूपाय खमन्त्रतः । ठठादिगणपूज्याय ठमध्याय नमोनमः ॥ ३४ डकाराय ड डा डी डू डे डो डैश्च महारवैः । डामरै रभिपूज्याय नमोनृत्तप्रियायच ॥ ३५ ढकाराय ढमन्त्रार्थ परिज्ञानवतां नृणाम् । ढसंज्ञित महानन्दप्रदाय सततं नमः ॥ ३६ णकाराय ण णा णी णू णे णै णो णौ रवैस्सदा । णाकिनी गणपूज्याय णसंज्ञाय नमोनमः ॥ ३७ तकाराय तशब्दार्थ स्वरूपाय ततायच । तत्त्वमित्यभिपूज्याय तत्वभूतायवै नमः ॥ ३८ थकाराय थमन्त्रार्थ स्वरूपायाध संज्ञितैः ।