पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९० बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सति विततपुर्यष्टकजये कथं तन्न ब्रूयान्निगमनिकुरम्ब: परशिवम् ॥ ४ दुःखासार दुरन्त दुष्कृतघनां दुस्संमृतिप्रावृषं दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः । उच्चण्डप्रतिपक्षपण्डितयशो नाळीकनाळाङ्कुरपग्रासो - हंसकुलावतंसपदभाक्सन्मानसे क्रीडति ॥ ५ क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् । येना- शेषविशेषदोहलहरी मासेदुषीं शेमुषीं सोयं शीलवतां पुनाति परमो हंसो द्विजात्यप्रणीः ॥ ६ नीरक्षीरनयेन तथ्यवितथे संपिण्डिते पण्डितै- र्दुर्बोधेसकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः । हंसोयं परमोस्तु ये पुनरिहाशक्तास्समस्तास्थिता जुम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥ दृष्टिं ये प्रगुणीकरोति तमसा बाह्येन मन्दी- कृतां नाळीकप्रियतां प्रयाति भजते मित्रत्वमव्याह-