पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ आम्नायस्तोत्रम् ॥

चतुर्दिक्षु प्रसिद्धासु प्रसिद्ध्यर्थं स्वनामतः ।
चतुरोथ मठान् कृत्वा शिष्यान्संस्थापयद्विभुः ॥ १
चकार संज्ञामाचार्यश्चतुरां नामभेदतः ।
क्षेत्रं च देवतां चैव शक्तिं तीर्थं पृथक्पृथक् ॥ २
सम्प्रदायं तथाम्नायभेदं च ब्रह्मचारिणाम् ।
एवं प्रकल्पयामास लोकोपकरणाय वै ॥ ३
दिग्भागे पश्चिमे क्षेत्रं द्वारकाशारदामठः ।
कीटवाळस्सम्प्रदाय स्तीर्थाश्रमपदे उभे ॥ ४
देवस्सिद्धेश्वरश्शक्ति र्भद्रकाळीति विश्रुता ।
स्वरूपब्रह्मचार्याख्य आचार्यः पद्मपादकः ॥ ५
विख्यातं गोमतीतीर्थं सामवेदश्च तद्गतम् ।
जीवात्मपरमात्मैक्यबोधो यत्र भविष्यति ॥ ६
विख्यातं तन्महावाक्यं वाक्यं तत्त्वमसीतिच ।
द्वितीयः पूर्वदिग्भागे गोवर्धनमठः स्मृतः ॥ ७