पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८३
श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम्


सारस्वतसमुद्धर्ता सारासारविचक्षणः ।
श्रौतस्मार्तसदाचार संस्थापनधुरन्धरः ॥ ८
वेदशास्त्र बहिर्भूत दुर्मताम्भोधिशोषकः ।
दुर्वादिगर्वदावाग्निः प्रतिपक्षेभकेसरी ॥ ९
यशो जैवातृकज्योत्स्ना प्रकाशितदिगन्तरः ।
अष्टाङ्गयोगनिष्णातस्साङ्ख्योगविशारदः ॥ १०
राजाधिराजसन्दोह पूज्यमानपदाम्बुजः ।
महावैभवसम्पन्न औदार्यश्रीनिवासभूः ॥ ११
तिर्यगान्दोळिकामुख्य समस्तबिरुदाञ्चितः ।
महाभोगी महायोगी वैराग्यप्रथमाश्रयः ॥ १२
श्रीमान्परमहंसादिसद्गुरुः करुणानिधिः ।
तपःप्रभावनिर्धूतदुर्वारकलिवैभवः ॥ १३
निरन्तरशिवध्यान शोषिताखिलकल्मषः ।
निर्जितारातिषड्वर्गो दारिद्र्योन्मूलनक्षमः ॥ १४
जितेन्द्रियस्सत्यवादी सत्यसन्धो दृढव्रतः ।
शान्तास्मा सुचरित्राढ्य सर्वभूतहितोत्सुकः ॥ १५