पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ॥

विद्यारण्यमहायोगी महाविद्याप्रकाशकः ।
श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥ १
रामायणमहासप्त कोटिमन्त्रप्रकाशकः ।
श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥ २
विरूपाक्षमहाक्षेत्र स्वर्णवृष्टिप्रकल्पकः ।
वेदत्रयोल्लसद्भाष्यकर्ता तत्वार्थकोविदः ॥ ३
भगवत्पादनिर्णीत सिद्धान्तस्थापनप्रभुः ।
वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥ ४
श्रीमत्कर्णाटराज्यश्री सम्पत्सिंहासनप्रदः ।
श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृत् ॥ ५
आचार्यकृतभाष्यादि ग्रन्थवृत्तिप्रकल्पकः ।
सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥ ६
सर्वशास्त्रार्थतत्वज्ञो मन्त्रशास्त्राब्धिमन्दरः ।
विद्वन्मणि शिरश्श्लाध्य बहुग्रन्थ विधायक: ॥ ७