पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७९
श्रीशङ्कराचार्याष्टोत्तरशतनामस्तोत्रम्


निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः ।
सत्वप्रधानस्सद्भावस्सङ्ख्यातीतगुणोज्ज्वलः ॥ ८
अनघस्सारहृदयस्सुधीस्सारस्वतप्रदः ।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविलक्षणः ॥ ९
तपोराशिर्महातेजा गुणत्रयविभागवित् ।
कलिघ्नः कालकर्मज्ञ स्तमोगुणनिवारकः ॥ १०
भगवान्भारतीजेता शारदाह्वानपण्डितः ।
धर्माधर्मविभावज्ञो लक्ष्यभेदप्रदर्शकः ॥ ११
नादबिन्दुकळाभिज्ञो योगिहृत्पद्मभास्करः ।
अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥ १२
चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् ।
अमानुषचरित्राढ्यः क्षेमदायी क्षमाकर: ॥ १३
भव्यो भद्रप्रदो भूरि महिमा विश्वरञ्जकः ।
स्वप्रकाशस्सदाधारो विश्वबन्धुश्शुभोदयः ॥ १४
विशालकीर्तिर्वागीशस्सर्वलोकहितोत्सुकः ।
कैलासयात्रासंप्राप्त चन्द्रमौलिप्रपूजकः ॥ १५