पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ शिवनक्षत्रमालिकास्तोत्रम् ॥ .

श्रीकण्ठस्साम्ब ईशानः पार्वतीप्राणवल्लभः ।
वृषारूढो विष्णुसखश्शिव एव गतिर्मम ॥ १
परमात्मा परब्रह्म पञ्चास्यः परमेश्वरः ।
परात्परतरं धाम शिवएव गतिर्मम ॥ २
निरालम्बो निराकारो निर्मलो निरुपद्रवः ।
नित्यशुद्धो निष्कळङ्कश्शिवएव गतिर्मम ॥ ३
शुद्धस्फटिकसङ्काशस्सूर्यचन्द्राग्निलोचनः ।
शूलटङ्कधरश्शर्वश्शिवएव गतिर्मम ॥ ४
भूरयो विष्णुबाणश्च वेदाश्वो ब्रह्मसारथिः ।
त्रिपुरारिर्मेरुधन्वा शिवएव गतिर्मम ॥ ५
व्याघ्रचर्माम्बरघरो व्याळयज्ञोपवीतवान् ।
भवाभीष्टप्रदो नित्यश्शिवएव गतिर्मम ॥ ६
कालकालो महाकाळो भस्मोद्धूळितविग्रहः ।
कैलासनिलयश्शम्भु शिशवएव गतिर्मम ॥ ७