पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६४
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

णीयमूर्तये । जगदिन्द्रजालरचनापटीयसे महसे नमोस्तु वटमूलवासिने ॥ १६

 व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७

 उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटी- करोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानस- चन्द्रकान्तः ॥ १८

 यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्ध- शशाङ्कमौळे: । ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम् ॥ १९

इति श्रीमच्छङ्करभारतीस्वाभिविरचितं दक्षिणामूर्तिस्तोत्रम् ॥