पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६२
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

 कळाभिरिन्दोरिव कल्पिताङ्गः मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेयमनाद्यविद्या- तिमिरप्रभातम् ॥ ६

 स्वदक्षजानुस्थितवामपादं पादोदरालङ्कृतयोग- पट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणि- धानवन्तम् ॥ ७

 तत्वार्थमन्तेवसतामृषीणां युवापि यस्सन्नुपदेष्टु- मीष्टे । प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्य- गुणाधिवासम् ॥ ८

 एकेन मुद्रां परशु करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडा- मणिराविरस्तु ॥ ९

 आलेपवन्तं मदनाङ्गभूत्या शार्दूलकत्त्त्या परिधान- वन्तम् । आलोकये कञ्चन देशिकेन्द्रमज्ञानवाराकर- बाडबाग्निम् ॥ १०

 चारुस्मितं सोमकळावतंसं वीणाधरं व्यक्तजटा-