पुटमेतत् सुपुष्टितम्
॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥
उपासकानां यदुपासनीयमुपात्तवासं वटशाखि- मूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तुं चित्ते मम बोधरूपम् ॥ १
अद्राक्षमक्षीणदयानिधानमाचार्यमाद्यं वटमूल - भागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो- नुदं तम् ॥ २
विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनी- नाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्व- मसीति बोधम् ॥ ३
अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान् मुनीनहं नौमि गुरुं गुरू- णाम् ॥ ४
ममाद्य देवो वटमूलवासी कृपाविशेषात्कृतसन्नि- धानः । ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्त- मपाकरोतु ॥ ५