पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीदक्षिणामूर्ति मानसिकपूजास्तोत्रम् ॥

 मुद्राक्षमाला मृतपात्रविद्या व्याघ्राजिनार्धेन्दु- फणींद्रयुक्तम् । योगीन्द्रपर्जन्य मनस्सरोजभृङ्गभजेहं हृदिदक्षिणास्यम् ॥ १

 स्फुटवटनिकटस्थं स्तूयमानावभासं पटुभुजतटबद्ध- व्याघ्रचर्मोत्तरीयम् । चटुलनिटलनेत्रं चन्द्रचूडं मुनीशं स्फटिकपटलदेहं भावये दक्षिणास्यम् ॥ २ आवाहये सुन्दरनागभूषं विज्ञानमुद्राञ्चित पञ्च- शाखम् । भस्माङ्गरागेण विराजमानं श्रीदक्षिणामूर्ति- महात्मरूपम् ॥ ३

 सुवर्णरत्नामलवज्रनीलमाणिक्यमुक्तामणियुक्त- पीठे । स्थिरोभव त्वं वरदो भवत्वं संस्थापयामीश्वर दक्षिणास्यम् ॥ ४

 श्रीजाह्नवीनिर्मलतोयमीश चार्व्यार्थमानीय समर्प- यिष्ये । प्रसन्नवक्त्रान्बुजलोकवन्द्य कालत्रयेहं तव- दक्षिणास्तयम् ॥ ५