पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सहस्रशीर्षं मनसा मया त्वं
   दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण
   ब्रह्मेश ते मस्तकशोभनाय ॥ २४
विचित्ररत्नैः कनकेन ढुण्ढे
   युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि
   गृहाण शूर्पश्रुतिभूषणाय ॥ २५
शुण्डाविभूषार्थमनन्तखेलिन्
   सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया य-
   द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ २६
सुवर्णरत्नैश्च युतानि ढुण्ढे
   सदैकदन्ताभरणानि कल्प |
गृहाण चूडाकृतये परेश
   दत्तानि दन्तस्य च शोभनार्थम् ॥ २७