पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

   र्यत्प्राप्नुयां मृतिमरण्यवने पुरेव ।
न ज्ञायते यदि कदा भव मे प्रसन्नः श्रीपा...॥ २२
शार्दूलसिह्ममृगसर्पजलाग्निवात
   चोरामयादिमृतिमाप्नुवतोह्यकाले।
तत्रागतस्यदमृताख्य मथोपदिश्य श्रीपा ...॥ २३
श्रीमन्गिरीश शशिशेखर दिव्यमूर्ते
   श्रीपार्वतीधर रमापति मुख्यसेव्य ।
सर्वान्तरायहर पाशधर प्रभो मे श्रीपा ...॥ २४
नित्यं शिवस्य महतस्तु करावलम्बं
   स्तोत्रं महागुरुवरेण शिवशङ्करेण ।
यत्प्रातरेव पठतश्शरवक्त्रएष-
   स्सर्वानभीष्टनिचयान् प्रददाति शम्भुः॥ २५
श्रीपार्वतीशस्य करावलम्ब
   स्तोत्रं पठेद्यः प्रयतः प्रभाते ।
स्मृतिं तु तस्यात्र मृतौ प्रदद्यात्
   श्रीपार्वतीशो हि करावलम्बम् ॥ २६

इति श्रीमत्परमहंसपरिव्राजक श्रीशङ्करभारतीस्वामिविरचितं
श्रीपार्वतीशकरावलम्बस्तोत्रम् सम्पूर्णम् ॥