पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३१
श्रीपार्वतीशकरावलम्बस्तोत्रम्

भीतस्य दूतवशगस्य च मे दयाळो श्रीपा ...॥ १६
नास्त्येव दारसुतबन्धुगुणप्रतीकं
   मुक्त्वागतस्य रविसूनुपरं तदीये ।
दूतैस्समानुगमनेऽप्यतिभीतिगस्य श्रीपा ...॥ १७
जन्मप्रभृत्युतमहांति च दुष्कृतानि
   कृत्वा तु संसृतिनिमित्तमदान्धकारैः।
नह्यात्तमीश तव नाम मया कदापि श्रीपा ...॥ १८
अव्याजभक्तपरिपालकदीनबन्धो
   स्वामिन् शिवारमण मे तव किङ्करस्य ।
देहावसानसमये तव नाम दत्वा श्रीपा ...॥ १९
नास्त्यन्यदैववरदो मम नास्तिनास्ति
   त्वामन्तरेण गिरिजेश कृपासमुद्र ।
दत्वा स्मृतिं शुभतरां तव नाम्नएष श्रीपा ... ॥ २०
मृत्युश्च सन्निहित एव यदा करोवा
   तं प्राप्नुयां यदि तदा स्मृतिहीनचित्तम् ।
तस्मिंत्समागत उमाधव रक्ष मां त्वं श्रीपा... ॥ २१
पूर्वार्जितैरमितदुष्करपातकौघै-