पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३०
बृहत्स्तोत्ररत्नाकरे-प्रथमभाग:


दैन्यं गतस्य यमदूतनिपीडितस्य श्रीनीलकण्ठ ..
आगत्य ते यमचराह्यति भीतिरूपाः
   दंष्ट्राकराळवदना धृतयाम्यदण्डाः।
माभीषयन्ति च तदा परिपालकः को
विश्वेशे शर्व ...॥ १२
आयाहि पापनिरतेति वदन्ति ये ते
   बद्ध्वा गळे यमभटास्तु कठोरपाशैः।
धृत्वा करौ च चरणौ वशगस्य तेषां श्रीपा...॥ १३
जल्पन् रुदन् सति सुतानभिवीक्ष्य वक्तुं
   हीनस्य वैधृतिबलेनच दिव्यनाम ।
स्मर्तुं भयेन यमदूतसहानुगस्य श्रीपा ...॥ १४
नीतस्य तैस्सिकतकण्टक कुत्सिताश्म
   सान्द्रेण य दुष्कृतपदाजलहीनदेशे।
छायाविहीनबहुळातपतप्तभूमौ श्रीपा ...॥ १५
आपद्गतस्य च तदा कृपया गतस्त्वं
नालोच्य दुर्गुणगणांस्तव किङ्करस्य ।