पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीमहानन्दीश्वरभुजङ्गस्तोत्रम् ॥

 किरीटेन्दुगङ्गामनोज्ञोत्तमाङ्गं ललाटेक्षणात्पुष्प-
देहानुषङ्गं । तुषाराद्रिकन्या ससङ्गं सदऽहं नमाम्यन्त-
रङ्गं महानन्दिलिङ्गम् ॥ १

 दिगीशादिदिग्भित्तिसन्नाट्यलिङ्गं लसत्कुम्भि-
चर्माम्बरच्छादिताङ्गम् । जगन्मातृगौरी मुखाम्भोज
भृङ्गं नमा॥ २

 चतुर्वेदवेद्यं महावेदवाद्यं नमद्भक्तहृद्यं मुरारि-
प्रसाध्यम् । गुरुब्रह्मभूतं चिदानन्दरूपं नमा ॥ ३

 पुराकाशिकापट्टणप्राङ्गणान्ते नवस्वर्णदीभूतभृत्कृष्ट
रान्ते । हरिब्रह्ममूर्धाभिषिक्तं विदेहं नमा ...॥ ४

 सुहृत्पुत्रसम्पन्मुखाद्युत्सुखादिं विहायरिवर्गं महा-
सेव्यकायम् । जटाजूटमध्यप्रदेशप्रगङ्गं महीभृद्धवाङ्गं
महानन्दिलिङ्गम् ॥ ५

 चतुर्द्वारदौवारिकोदार्यमाणं नमन्हृद्यगन्धर्वगीता-
नुरक्तं । सुनाट्यं प्रकुर्वाणमीशं सुरेशं नमा ...॥ ६

  ॥ इति श्रीमहानन्दीश्वर भुजङ्गस्तोत्रम् ॥