पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवस्तुति ४१३


कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटि-
चर्मणि ब्रह्मणि ॥ ४
   भवद्भवनदेहलीविकटतुण्डदण्डाहतित्रुटन्मुकुटको-
टिभिर्मघवदादिभिर्भूयते । व्रजेम भवदन्तिकं प्रकृति-
मेत्य पैशाचकीं किमित्यमरसम्पदः प्रमथनाथ नाथा-
महे ।। ५
  त्वदर्चनपरायणप्रमथकन्यकालुण्ठितप्रसून सफल-
द्रुमं कमपि शैलमाशास्महे । अलं तटवितर्दिंकाश-
यितसिद्धसीमन्तिनीप्रकीर्णसुमनोमनोरमणमेरुणामे-
रुणा ॥ ६
  न जातु हर यातु मे विषयदुर्विलासं मनो मनो-
भवकथास्तु मे न च मनोरथातिथ्यभूः । स्फुरत्सुरत-
रङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव
भवानि पूजापरः ॥ ७
   विभूषणसुरापगाशुचितरालवालावळीवलद्वहल-
सीकरप्रकरसेकसंवर्धिता । महेश्वरसुरदुमस्फुरित -