पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ शिवस्तुतिः॥


   गले कलितकालिमः प्रकटितेन्दु फालस्थले विना-
टितजटोत्करं रुचिरपाणिपाथोरुहे, उदञ्चितकपा-
लजं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि
धाम वन्दामहे ॥ १
   वृषोपरि परिस्फुरद्धवळदाम धामश्रिया कुबेरगिरि
गौरिमप्रभवगर्वनिर्वासि तत् । क्वचित्पुनरुमाकुचो-
पचितकुङ्कुमैरञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं
भजे ॥ २
   उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकर-
कलाकरव्यतिकरेण चाहर्निशम् । विकासितजटाट-
वीविहरणोत्प्तवप्रोल्लसत्तरामरतरङ्गिणीतरळचूडमीडे -
मृडम् ॥ ३
   विहाय कमलालयाविलसितानि विद्युन्नटी
विडम्बनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि