पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ काश्यष्टकम् ॥


स्वर्गतस्सुखकरी दिवौकसां शैलराजतनयातिवल्लभा ।
डुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १
यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २
सर्वदाऽमरगणैश्च वन्दिता या गजेन्द्रमुखवारितविघ्ना।
कालभैरव कृतैकशासना विश्वनाथनगरी गरीयसी॥ ३
   यत्र तीर्थममला मणिकर्णिका
      यासदाशिवसुखप्रदायिनी ।
   या शिवेन रचिता निजायुधैः
      विश्वनाथनगरी गरीयसी ॥ ४
   सर्वतीर्थकृतमज्जनपुण्यै-
      र्जन्म जन्मसुकृतैः खलु लभ्या ।
   प्राप्यते भवभवातिनाशिनी
      विश्वनाथनगरी गरीयसी ॥ ५