पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४०८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


नाठ्यप्रिया नाठ्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः ।
तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ।। ३२
नववल्लीष्टवरदा नववीरसुजन्मभूः ।
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥ ३३
निशुम्भशुम्भदमनी नीचापस्मारमर्दनः ।
सहस्राराम्बुजारूढा सहस्रकमलार्चितः ॥ ३४
गङ्गासहोदरी गङ्गाधरो गौरी त्रियम्बकः ।
श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥ ३५
भवतापप्रशमनी भवरोगनिवारकः ।
चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥ ३६
प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् ।
स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥३७
सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः ।
सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥ ३८
सर्वमङ्गळरूपाढ्या सर्वकल्याणदायकः ।