पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९७
शिवस्तुतिः

त्वमादिरन्तो मध्यं च त्वमेवच सहस्रपात् ।
विजयस्वं सहस्राक्षो चित्तपाख्यो महाभुजः ॥ १३
अनन्तस्सर्वगो व्यापी हंसः पुण्याधिकोऽच्यतः ।
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिश्शिवः ॥ १४
त्रैविद्यस्त्वं जितक्रोधो जितारातिर्जितेन्द्रियः।
जयश्च शूलपणिस्त्वं पाहि मां शरणागतम् ॥ १५

॥ इति श्रीवामनपुराणान्तर्गता अन्धककृता शिवस्तुतिः॥