पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

   त्रिणाचिकेतस्त्रिपदप्रतिष्ठष्षडङ्गवित् स्त्रीविषये-
ष्वलुब्धः। त्रैलोक्यनाथोसि पुनीहि शम्भो दासोऽस्मि
भीतश्शरणागतस्ते ॥ ६
   कृतो महाशङ्कर तेऽपराधो मया महाभूतपते
गिरीशाकामारिणा निर्जितमानसेन प्रसादयेत्वां शिर-
सा नतोऽस्मि ॥ ७
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।
त्राहि मां देवदेवेश सर्वपापहरो भव ॥ ८
मम देवापराधोऽस्ति त्वयावै तादृशोऽप्यहम् ।
स्पृष्टः पापसमाचारो मां प्रसन्नो भवेश्वर ॥ ९
त्वं कर्ता चैव धाता च जय त्वं च महाजय ।
त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमोङ्कारो व्ययोधृतः॥ १०
त्वं ब्रह्मसृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः ।
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं तु हितोत्तम ॥ ११
सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तश्च धीवरः ।
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ॥ १२