पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ १४
आज्ञापय नयं नाथ कर्तरो वचनं तव ।
भूतकोटिसहस्रेषु रूपकोटिशतेषु च ॥ १५
अन्तं गन्तुं न शक्तास्स्म देवदेव नमोस्तु ते ॥

इति श्रीमहापुराणे लैङ्गे पूर्वभागे देवदारुवनस्य मुनिकृता
परमेश्वरस्तुतिर्नाम द्वात्रिंशोध्यायः॥