पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२५
आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः।
सुब्रह्मय्भैरवो नामभैरवो भूतभावनः ॥ १२६
भैरवीतनयो देवीपुत्रः पर्वतसन्निभः ।
नाम्नाऽनेन सहस्रेण स्तुत्वा वटुकभैरवम् ॥ १२७
लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् ।
उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ १२८
तस्मिन्योगे महेशानस्सर्वसिद्धिमवाप्नुयात् ।
लक्षमावर्तयन्मन्त्री मन्त्रराजं नरेश्वरः ॥ १२९
नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवं ।
स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ १३०
दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् ।
न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ १३१
अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः।
स्तवत्सास्य प्रसादेन देवनाकमतिप्रियः ॥ १३२
सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी ।