पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७९
वटुकभैरवसहस्रनामस्तोत्रम्

गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ ११७
गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणप्रियः ।
गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ ११८
गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः ।
गाम्भीरधारको धर्ता विधर्ता धर्मपालकः॥ ११९
जगदीशो जगन्मित्रो सगजाड्यविनाशनः ।
जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ १२०
मालतीपुष्पसम्प्रीतो मालतीकुसुमोत्सवः ।
मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ १२१
रसालमञ्जरीरम्यो रसालगन्धसेवितः।
रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ १२२
रसालपादपासीनो रसालफलसुन्दरः।
रसालरससन्तुष्टो रसालरससालयः ॥ १२३
केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः ।
केतकीपत्रसङ्काश: केतकीप्राणनाशकः ॥ १२४
गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः ।