पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

हेतिदो हेतिको हंसो हंसागतिराह्वयः॥ ७७
हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः ।
हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ ७८
हरजीवरतो हारी हरितो हरितांपतिः ।
हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७९
हरिदीशो हरित्प्रायो हरिप्रियप्रिया हितः ।
हेरम्बो हुङ्कृतिकृद्धो हेरम्बो हुङ्कृती हरी ॥ ८०
हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः ।
क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ८१
क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः ।
क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः॥ ८२
क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः ।
क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः॥ ८३
क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी ।
क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ ८४
क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः।