पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७१
वटुकभैरवसहस्रनामस्तोत्रम्

वामनो वल्लभो वन्ध्यो वनमाली वलेश्वरः॥ ५३
वशस्थो वनगो वन्ध्यो वनराजो वनाह्लयः।
वनेचरो वनाधीशो वनमालाविभूषणः ॥ ५४
वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः ।
शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ ५५
शबरीप्रणत: शाल: शिलीमुखध्वनिप्रियः ।
शकुलः शल्लकः शीलः शीतरश्मिः सितांशुकः ॥ ५६
शीलदः शीकर: शीलः शीलशाली शनैश्चरः ।
सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः।। ५७
सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः ।
सिन्धुपतिः सुराधीशः सरसीरुहलोचनः॥ ५८
सरित्पतिस्सरित्संस्थ: सरः सिन्धुसरोवरः।
सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ ५९
सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः ।
सदृशः सहसी शूरः सेव्यमानः सतीपतिः ॥ ६०
सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः।