पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६९
वटुकभैरवसहस्रनामस्तोत्रम्

भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ ३७
भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः ।
भूतेशो भूतिदो भर्गो भूतभव्यो भवेश्वरः ॥ ३८
भवानीशो भवेशानी भवानीनायको भवः ।
मकारो माधवो मानो मीनकेतुर्महेश्वरः ॥ ३९
महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः ।
मरीचिर्मञ्जुलो मोहो मोहहा मोहमर्दनः ॥ ४०
मोहको मोहनो मेधाप्रियो मोहविनाशकः।
महीपतिर्महेशानो महाराजो महेश्वरः ।। ४१
महीश्वरो महीपालो महीनाथो महीप्रियः ।
महीधरो महीशानो मधुराजो मुनिप्रियः ॥ ४२
मौनी मौनधरो मेधो मन्दारो मतिवर्धन:
मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४३
मेधावी मानदो मानी मानहा मानमर्दनः ।
मीनगो मकराधीशो मकरो मणिरजितः ॥ ४४
मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः ।