पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
गणेशकवचम्


जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः।
वाचं विनायकः पातु दन्तात्रक्षतुदुर्मुखः॥
श्रवणौ पाशपाणिस्तु नासिकां किन्तितार्थदः।
स्कन्धो पातु गजस्कन्धः स्तनौ विघ्रविनाशनः।
हृदयं गणनाथस्तु हेरम्बो जठरं महान्।
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः।
गणक्रीडो जानुजङ्घे ऊरू मङ्गळमूर्तिमान्।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु।
क्षिप्तप्रसादनो बाहू पाणी आशाप्तपूरकः।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः।
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु।
आमोदस्त्वघ्रतः पातु प्रमोदः पृष्ठतोऽवतु।