पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६१
सुवर्णमालास्तुतिः

सत्यं ज्ञानमनन्तं ब्रह्मे-
त्येतल्लक्षणलक्षित भो । साम्ब ...॥ ४७
हाहा हूहू मुख सुरगायक-
गीतापदानपद्य विभो । साम्ब ... ॥ ४८
ळादिर्नहि प्रयोगस्तदन्तमिह
मङ्गलं सदास्तु विभो । साम्ब ... ॥ ४१
क्षणमिव दिवसान्नेष्यति
त्वत्पदसेवाक्षणोत्सुकः शिव भो । साम्ब ...

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥ सुवर्णमालास्तुतिः सम्पूर्णा ॥