पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६०
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

भगवन् भर्ग भयापह भूतपते
भूतिभूषिताङ्ग विभो । साम्ब ...॥ ३९
महिमा तव नहि माति
श्रुतिषु हिमानीधरात्मजाधव भो। साम्ब...
यमनियमादिमिरङ्गैर्यमिनो
  हृदये भजन्ति सत्वं भो । साम्ब ...॥४१
रज्जावहिरिव शुक्तो रजतमिव
त्वयि जगन्ति भान्ति विभो । साम्ब...॥
लब्ध्वा भवत्प्रसादाच्चकं
विधुरवति लोकमखिलं भो। सान्ब
वसुधातद्धरच्छयरथमौर्व-
शरपराकृतासुर भो । साम्ब ...॥ ४४
शर्वदेव सर्वोत्तम सर्वद
दुर्वृत्तगर्वहरण विभो । साम्ब ... ॥ ४५
षड्रिपुषडूर्मि षड्विकारहर
सन्मुख षण्मुख जनक विभो । साम्ब...॥