पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४९
मृत्युञ्जयमानसिकपूजास्तोत्रम्


प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ४१
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः॥ ४२
संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुनकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादितं सर्वशः।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४
वपुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम्