पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
गणपतिसहस्रनामस्तोत्रम्

दशाध्यायो दशप्राणो दशेन्द्रियनियामकः।
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः।
एकादशादिरुद्रैस्संस्तुत एकादशाक्षरः।
द्वादशोद्दण्डदोर्दण्डो द्वादशाङ्कनिकेतनः।
त्रयोदशभिधाभिन्नविश्वेदेवाभिदैवतः।
चतुर्दशेन्द्रप्रभवश्चतुर्दशजगत्प्रभुः।
सामपञ्चदशः पञ्चदशः पञ्चदशीशीतांशुनिर्मलः।
षोडशाधारनिलयः षोडशस्वरमातृकः।
षोडशान्तपदावासः षोडशेन्दुकळात्मकः।
सप्तसप्तदशी सप्तदशस्सप्तदशाक्षरः।
अष्टादशद्वीपपतिरष्टादशपुराणकृत्।
अष्टादशौषधिस्रष्टा अष्टादशमुस्मृतः।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः।
एकविंशः पुमानेकविंशत्यङ्गुळिपल्लवः।
चतुर्विशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः।