पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ अर्धनारीश्वरस्तोत्रम् ॥

चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायैच जटाधराय
नमः शिवायै च नमः शिवाय ॥१
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजापुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः ...॥२
झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजस्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय नमः ...॥ ३
विशालनीलोत्पललोचनायै
विकासिपङ्केरुलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः ...॥ ४
मन्दारमालाकलितालकाय
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः ...॥ ५