पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१४
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


चेतस्तुरङ्गमधिररुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ ॥७५
भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम् ।
सम्पूरितो भवति यस्य मनस्तटाक-
स्तज्जन्मसस्थमखिलं सफलं च नान्यत् ॥७६
बुद्धिः स्थिरा भवितुमीश्वरनादपद्म-
सक्ता वधूर्विरहणीव सदा स्मरन्ती।
सद्भावनास्मरणदर्शनकीर्तनादि-
सम्मोहितेव शिवमन्त्रजपेन विन्ते॥७७
सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥७८
नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः
शम्भो तेन कथं कठोरयमराड्वक्ष:कवाटक्षतिः