पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सप्ताङ्गराज्यसुस्वदस्सप्तर्षिगण्मण्डितः।
सप्तछन्दोनिधिस्सप्तहोता सप्तस्वराश्रयः।
सप्ताब्धिकेळिकासारस्सप्तमातृनिषेवितः।
सप्तच्छदामोदमदस्सप्तच्छन्दोमुखप्रियः।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रक्र्तिकारणः।
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः।
अष्टमैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत्।
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः।
नवनागासनाध्यसी नवनिध्यनुशासिता।
नवद्वारघनाधारो नवघरनिकेतनः।
नरनारायणस्तुत्यो नवदुर्गानिषेवितः।
नवनायमहानाथो नवनागविभूषणः।
नवनात्तविचित्राङ्गो नवशक्तिशिरोधृतः।
दशात्मको दशभुजो दशदिक्पतिवन्दितः।