पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३११
शिवानन्दलहरी


किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते॥
वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गी कुरु ॥
वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५
क्रीडार्थं सृजति प्रपञ्चमखिलं क्रीडामृगास्ते जना:
मत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६
बहुविधपरितोषबाष्पपूरस्फुट-
पुलकाङ्कितचारुभोगभूमिम् ।