पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शम्भो त्वं परमान्तरङ्ग इति मे चित्तेस्मराम्यन्वहम्॥
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुम्भे साम्ब तवाङ्घ्रिपल्ल युगं संस्थाप्य संवित्फलम् ।
सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥
आम्नायाम्बुधिमादरेण सुमनःसङ्घाः समुद्यन्मनो-
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरूं सुपर्वसुरभिं चिन्तामणिं धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥३७
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नःशिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतः पुष्करलक्षितो भवति चेदानन्दपायोनिधिः
प्राकल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते॥
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयोविगलिताः कालाः सुखाविष्कृता।