पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०१
शिवानन्दलहरी


कदा वा कैलासे कनकमणिसौधे सह गणै-
वसञ्छम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः।
विभो साम्ब खामिन्परमशिव पाहीति निगद-
न्विधातॄणां कल्पान्क्षणमिव विनेष्यामि सुखतः ॥
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्ठवपुषं
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ? ॥२५
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुरालं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला-
नलाभ्यां ब्रह्माधैर्मुदमनुभविष्यामि हृदये ? ॥ २६
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे।
शिरःस्थे शीतांषौ चरणयुगलस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ? ॥