पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३००
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटाति झटिति स्वैरमभितः।
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
दृढं भक्त्या बद्ध्वा शिव भवधीनं कुरु विभो ॥२०
धृतिस्तम्भाधारां गुणनिवद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।
स्मरारे मच्चेतः स्फुटपटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो।।
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
प्रवेशोद्युक्तः सम्भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शङ्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति।
पुनश्च त्वा द्रष्टुं दिवि भुवि वहन्पनिमृगता
मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ २३