पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९६
बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:


न मध्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरिब्रह्मादीनामपि निकटभाजामसुलभं
चिरं याचे शम्भो शिव शिव तवाम्भोजभजनम् ॥
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथितकृपया पालय विभो ॥५
घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचल:
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥६
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणिती
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
परप्रन्थान्कैर्वा परमशिव जाने परमतः ॥७