पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
बृहत्स्तोत्ररत्नाकरे-प्रथमभागः

श्रीकण्ठस्यारुणोद्यच्चरणसर-
सिजप्रोत्थितास्ते भवाख्या-
त्पारावाराच्चिरं वो दुरित-
हतिकृतस्तारयेयुः परागाः ॥२८
भूम्ना यस्यास्तसीस्ना भुवन-
मनुसृतं यत्परं धामधान्नां
साम्नामाम्नायतत्वं यदपि च
परमं यद्गुणातीतमाद्यम् ।
यच्चाहोहन्निरीहं गहनमिति-
मुहुः प्राहुरुच्चैर्महान्तो
माहेशं तन्महो मे महित-
महरहर्मोहरोहं निहन्तु ॥२९

इति श्रीमत्परमहंस परिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ

॥ शिवकेशादिपादान्तवर्णनस्तोत्रं सम्पूर्णम् ॥