पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९०
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

आम्बद्धाहीन्द्रकाञ्चीगुणमति-
पुथुलं शैलजाक्रीडभूमि-
स्तद्वो निःश्रेयसे स्याज्जघनमति-
धनं बालशीतांशुमौलेः।।२०
पुष्टावष्टम्भभूतौ पृथुतरजघ-
नस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्राद्विरद-
वरकरोदारकान्तिं दधानौ ।
साराबूरू पुरारेः प्रसभ-
मरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकम-
वनतौ वाञ्छितं वो विधत्ताम् ॥२१
आनन्दायेन्दुकान्तोपलरचि-
तसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदध-
ति चरणेताण्डवाकुश्चनानि ।