पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


द्दोर्मूलं निर्मलं यद्धृदिदुरि-
तमपास्यार्जितं धूर्जटेर्वः ॥१६
कण्ठाश्लेषमाप्तादिवइव-
कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटि-
कमणिमहासङ्क्रमाकारदीर्धाः ।
तिर्यग्विष्कम्भभूतास्त्रिभुव-
नवसतेभिन्नदैत्येभदेहा
बाहावस्ताहरस्यद्रुतमिह-
निवहानंहसां संहरन्तु ॥१७
वक्षोदक्षद्विषोऽलं स्मरभर-
विनमद्दक्षजाक्षीण वक्षो-
जान्तर्निक्षिप्तशुम्भन्मलय-
जमिलतोद्भासिभस्मोक्षितंयत् ।
क्षिप्रं तद्रूक्षचक्षुः श्रुतिगण-
फणरत्नौघभाभीक्ष्णशोभं